ज्योत्सना सिंह 🇮🇳's banner
ज्योत्सना सिंह 🇮🇳's profile picture

ज्योत्सना सिंह 🇮🇳

@jyotsnassingh • 13,243 subscribers

तेरा वैभव अमर रहे माँ,हम दिन चार रहें न रहे ।

Videos

jyotsnassingh's profile picture

॥ श्रीरामाष्टकम् ॥ कृतार्तदेववन्दनं दिनेशवंशनन्दनम्। सुशोभिभालचन्दनं नमामि राममीश्वरम्। मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम्। महाधनुर्विदारकं नमामि राममीश्वरम्॥ स्वतातवाक्यकारिणं तपोवने विहारिणम्। करे सुचापधारिणं नमामि राममीश्वरम्॥ कुरङ्गमुक्तसायकं जटायुमोक्षदायकम्। प्रविद्धकीशनायकं नमामि राममीश्वरम्॥ प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम्। दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम्॥ विदीनदेवहर्षणं कपीप्सितार्थवर्षणम्। स्वबन्धुशोककर्षणं नमामि राममीश्वरम्॥ गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम्। कृतास्तमोहलक्षणं नमामि राममीश्वरम्॥ हृताखिलाचलाभरं स्वधामनीतनागरम्। जगत्तमोदिवाकरं नमामि राममीश्वरम्॥ इदं समाहितात्मना नरो रघूत्तमाष्टकम्। पठन्निरन्तरं भयं भवोद्भवं न विन्दते॥ जय जय श्री राम 🙏🏻 #RamNavami #शुभ #रामनवमी 🚩

ज्योत्सना सिंह 🇮🇳

13,321 views • 6 months ago

No more content to load